|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.90. अध्यायः 090
Mahabharata - Drona Parva - Chapter Topics
अर्जुनेन दुःशासनपराजयः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-90-0x(4491)(48085)
तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना।
केतु तत्र रणे वीराः प्रत्युदीयुर्धनञ्जयम्॥ 7-90-1(48086)
आहोस्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः॥
द्रोणमाश्रित्य तिष्ठन्ति प्राकारमकुतोभयाः॥ 7-90-2(48087)
सञ्जय उवाच। 7-90-3x(4492)
तथाऽर्जुनेन सम्भग्ने तस्मिंस्तव बलेऽनघ।
हतवीरे हतोत्साहे पलायनकृतक्षणे॥ 7-90-3(48088)
पाकशासनिनाऽभीक्ष्णं वध्यमाने शरोत्तमैः।
न तत्र कश्चित्सङ्ग्रामे शशाकार्जुनमीक्षितुम्॥ 7-90-4(48089)
ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम्।
दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्यगात्॥ 7-90-5(48090)
सकाञ्चनविचित्रेण कवचेन समावृतः।
जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः॥ 7-90-6(48091)
नागानीकेन महता ग्रसन्निव महीमिमाम्।
दुःशासनो महाराज सव्यसाचिनमावृणोत्॥ 7-90-7(48092)
हादेन गजघण्टानां शङ्खानां निनदेन च।
ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम्॥ 7-90-8(48093)
भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम्।
`युवराजो बलश्लाघी पिङ्गलः प्रियदर्शनः'।
स मुहूर्तं प्रतिभयो दारुणः समपद्यत॥ 7-90-9(48094)
तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान्।
व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान्॥ 7-90-10(48095)
सिंहनादेन महता नरसिंहो धनञ्जयः।
`तदाचलघनप्रख्यं पताकाशतसङ्कुलम्'।
गजानीकममित्राणामभितो व्यधमच्छरैः॥ 7-90-11(48096)
महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम्।
किरीटी तद्गजानीकं प्राविशन्मकरो यथा॥ 7-90-12(48097)
खमाश्रित इवादित्यः प्रतपन्स युगक्षये।
ददृशे दिक्षु सर्वासु पार्थः परपुरञ्जनः॥ 7-90-13(48098)
खुरशब्देन चाश्वानां नेमिघोषेण तेन च।
तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च॥ 7-90-14(48099)
नानावादित्रशब्देन पाञ्चजन्यस्वनेन च।
देवदत्तस्य घोषेण गाण्डीवनिनदेन च।
मन्दवेगा नरा नागा बभूवुस्ते विचेतसः॥ 7-90-15(48100)
शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना।
ते गजाः समसीदन्त मग्नाः पङ्कार्णवेष्विव॥ 7-90-16(48101)
युगपच्च समाविष्टैः शरैर्गाण्डीवधन्वनः।
अनेकशतसाहस्रैर्द्रुमा मधुकरैरिव।
`पुङ्खावशिष्टैर्बहुभिः शोणितोत्पीडवाहिभिः'॥ 7-90-17(48102)
आरावं परमं कृत्वा वध्यमानाः किरीटिना।
निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः॥ 7-90-18(48103)
अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च।
शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः॥ 7-90-19(48104)
गजस्कन्धगतानां च पुरुषाणां किरीटिना।
छिद्यन्ते चोत्तमाङ्गानि भुल्लैः सन्नतपर्वभिः॥ 7-90-20(48105)
सकुण्डलानां पततां शिरसां धरणीतले।
पद्मानामिव सङ्घातैः पार्थश्चक्रे निवेदनम्॥ 7-90-21(48106)
यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः।
भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे॥ 7-90-22(48107)
केचिदेकेन बाणेन सुयुक्तेन सुपत्रिणा।
द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले॥ 7-90-23(48108)
अपरे मदसंरब्धा मातङ्गाः पर्वतोपमाः।
सारोहा न्यपतन्भूमौ द्रुमवन्त इवाचलाः॥ 7-90-24(48109)
मौर्वी ध्वजं धनुश्चैव युगमीषां तथैव च।
रथिनां कुट्टयामास भल्लैः सन्नतपर्वभिः॥ 7-90-25(48110)
न सन्दधन्न चाकर्षन्न विमुञ्चन्न चोद्वहन्।
मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते॥ 7-90-26(48111)
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः।
मुहूर्तान्न्यपतन्नन्ये वारणा वसुधातले॥ 7-90-27(48112)
उत्थितान्यगणेयानि कबन्धानि समन्ततः।
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले॥ 7-90-28(48113)
सचापाः साङ्गुलित्राणाः सखङ्गाः साङ्गदा रणे।
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः॥ 7-90-29(48114)
सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः।
चक्रैर्विमथितैरक्षैर्भग्नैश्च बहुधा युगैः॥ 7-90-30(48115)
चर्मचापधरैश्चैव व्यवकीर्णैस्ततस्ततः।
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः॥ 7-90-31(48116)
निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः।
अदृश्यत मही तत्र दारुणप्रतिदर्शना॥ 7-90-32(48117)
एवं दुःशासनबलं वध्यमानं किरीटिना।
सम्प्राद्रवन्महाराज व्यथितं सहनायकम्॥ 7-90-33(48118)
`एवं बले द्रुते याते राजपुत्रं महारथम्।
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत्॥ 7-90-34(48119)
जीवितेन कथं गन्ता दुरुक्तं यावदद्य ते।
तद्वाक्यसदृशं कर्म कुरु त्वं यदि मन्यसे॥ 7-90-35(48120)
एवमुक्त्वा ततो राजा पार्थः पार्थिवमर्दनः।
भृशं क्रुद्धो महाराज अविध्यत्तनयं तव'॥ 7-90-36(48121)
ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः।
द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात्॥ ॥ 7-90-37(48122)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे नवतितमोऽध्यायः॥ 90 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-90-3 पलायने कृतः क्षणोऽवसरो येन॥ 5-90-9 प्रतिभयो भयङ्करः। दारुणः क्रूरः॥ 5-90-19 दन्तवेष्टेषु दन्तमूलेषु। कटेषु कटिषु॥ 5-90-21 निवेदनमुपाहारम्॥ 5-90-22 यन्त्रबद्धा यन्त्रैरालिखिताः॥ 5-90-90 नवतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|